(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.153. अध्यायः 153
Mahabharata - Udyoga Parva - Chapter Topics
कर्णादीन्प्रति दुर्योधनेन सांग्रामिकसामग्रीसंपादनचोदनम् ॥ 1 ॥ तच्चोदनया राज्ञां सेनाभिः सह कुरुक्षेत्रप्रस्थानम् ॥ 2 ॥


Mahabharata - Udyoga Parva - Chapter Text

जनमेजय उवाच।

युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥ 5-153-1(37039)
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ 5-153-2(37040)
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ 5-153-3(37041)
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते।
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ 5-153-4(37042)
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥ 5-153-5(37043)
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ॥ 5-153-6(37044)
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ 5-153-7(37045)
वैशम्पायन उवाच। 5-153-8x(3836)
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥ 5-153-8(37046)
अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ॥ 5-153-9(37047)
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ 5-153-10(37048)
अजातशत्रुरत्यर्थं भीमसेनवशानुगः।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥ 5-153-11(37049)
विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ 5-153-12(37050)
भविता विग्रहः सोयं तुमुलो लोमहर्षणः ।
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥ 5-153-13(37051)
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ 5-153-14(37052)
आसन्नजलकोष्ठानि शतशोथ सहस्रशः ।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च । 5-153-15(37053)
विविधायुधपूर्णानि पताकाध्वजवन्ति च।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ॥ 5-153-16(37054)
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् । 5-153-17(37055)
वैशम्पायन उवाच।
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ॥ 5-153-17x(3837)
हृष्टरूपा महात्मानो निवासाय महीक्षिताम् ।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ॥ 5-153-18(37056)
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ।
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः ॥ 5-153-19(37057)
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ 5-153-20(37058)
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ॥ 5-153-21(37059)
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ॥ 5-153-22(37060)
पदातयश्च पुरुषाः शस्त्राणि विविधानि च।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥ 5-153-23(37061)
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ 5-153-24(37062)
जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥ 5-153-25(37063)
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥ 5-153-26(37064)
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ॥ ॥ 5-153-27(37065)

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-153-15 आसन्नजला कोष्ठाः कक्ष्या येषु तानि तथा। अच्छेद्यः शत्रुभिरनिर्वार्य आहार आहरणं वस्तूनां मार्गाश्च येषु तानि अच्छेद्याहारमार्गाणि ॥ 5-153-20 अन्तरीयं परिधानीयम् । उत्तरीयं प्रावरणवस्त्रम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.